परोपकारः


परोपकारः

परोपकाराय  सताम् विभूतयः।  परेषाम् उपकारः इति परोपकारः। अस्मिन संसारे ये गुणाः सन्ति  तेषु गुणेषु परोपकारस्य प्रमुख स्थानम् अस्ति । परेषाम् हिताय यद् कार्यम् क्रियते तदेव परोपकारः अस्ति। सर्वश्रेष्ठ धर्मश्च अस्ति। परोपकारेण एव मानवेषु स्वदेश प्रेमभावना, भक्तिभावः भातृश्च भावना जायते। अस्मिन संसारे केवलम् एकेन जनेन सर्वाणि कार्याणि कर्तुम् न शक्यन्ते, जनः अपरस्य सहायता अपेक्षते एव । अतएव सर्वे परस्परं आदान प्रदानं च कर्तव्यम् एताद्दशं कर्म उपकारः कथ्यते। ये जनाः आत्मनां कल्याणं इच्छन्ति ते सर्वदा उपकुर्मः।

उपकारेण देशस्य राष्टृस्य वा सामाजिकी व्यवस्था सुद्दढ़ा च भवति। परोपकार करणेन ह्रदयं पवित्रं सत्व भाव समन्वितं सरलं विनयोपेतं सरसं सदयं च भवति। परोपकारिणः परेषां दुखं स्वीयं दुखं मत्वा तन्नाशाय यतन्ते। ते दीनेभ्यो दानं ददाति, निर्धनेभ्यो धनम्, वस्त्रहीनेभ्यो वस्त्रम् ,पिपासितेभ्यो जलम् , बुभुक्षितेभ्यो अन्नम्, अशिक्षितेभ्यः च शिक्षाम् ।सज्जनाः स्वतः एव परहिते प्रवत्ता भवन्ति ।
उक्तण्च –
‘’पदमाकरं दिनकरो विकचीकरोति , चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरो अपि जलं ददाति, सन्तः स्वयं परहिते विहिताभियोगः ।‘’


अस्मिन जगति परोपकारः एव सारः । परोपकारणैव दरिद्रनिर्धन , निर्बल प्राणिनाम् प्राणरक्षा भवति  । यदि सर्वे मानवाः परोपकार स्थाने अपकारमेव कुर्मुस्तदा लोकयात्रा असम्भवा स्यात् । अयम् परोपकारः सर्वेषाम् धर्माणां प्रथमो धर्मः ।
उक्तण्च-
‘’परोपकाराय सतां विभूतयः ‘’इति प्रसिद्ध वचनम् ।

संसारे विविध स्वभावयुक्तः जनाः दृश्यन्ते । केचन् स्वहानि कृत्वा अपि परस्य हानिं कुर्वन्ति दुष्टतमाः । केचन स्वार्थसिद्धिहेतोः परस्य हानिं कुर्वन्ति । केचन स्वार्थहानिं दृष्टवा अपि परस्य हानिं न कर्तुं वाण्छन्ति , केचितुं स्वहानि कृत्वा अपि परोपकारं कुर्वन्ति साधवः।
यथा-
‘’भगवान गौतमबुद्धौ यत् षड्वर्षाणि शरीरं कठिनतपश्चर्यया अत्यन्तं कृशमकरोत् ।तत् नैव स्वार्थ साधनाय जगताम् उपकाराय एव ।‘’

दानवीरेण  जीमूतवाहनेन  स्वजीवनं प्रदानं कृत्वा गरुड़ भय संत्रस्तानां कीदृशः उपकारः कृतः।  अस्माकं भारतवर्षे  अनेकाः सज्जनाः परोपकारं युक्ता अभवत् ।महाराज दधीचिः देवहिताय स्वानि अस्थीनि प्रददात्। परोपकारेण एव शरीरस्य शोभा सम्भवति, इति सत्यम् ।
‘’दिवाकरः सूर्यः समान रुपेण प्रकाशं विस्तारयति , तथैव परोपकारी सज्जनो अपि प्राणिमात्रे स्वार्थ रहितां दयां वितरति ।‘’

परेषां प्रयोजन सिद्धिरेव तेषां फलं जायते । वृक्षाः फलानि उत्पादयन्ति किन्तु ते स्वयं न खादन्ति । गावः किं मधुरममृततुल्यं दुग्धं स्वपानार्थ ददाति, केवलम् परेषां लाभार्थमेव। भगवती भागीरथी केन स्वकीयेय स्वार्थेन प्रवहति । स्व तु केवलं जनानाम् उपकारार्थ एव जलानि धारयति। यदि गंगा न स्यात् तर्हि उत्तर प्रदेशस्य समतल भागस्य दशा अपि दयनीया संजायेत् तथा अन्नाभावात् बहवो मनुष्याः क्षुधापिडिता मृता स्युः ।
‘’परोपकारार्थं फलन्ति वृक्षाः, परोपकारार्थं वहन्ति नद्याः।
परोपकारार्थं दुहन्ति गावः,परोपकारार्थं इदम् शरीरम् ।‘’


अतः सर्वे अपि सर्वदा परोपकारः करणीयः ।
 
        
 
time: 0.0145268440